वाचस्पत्यम्
र || रकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्त- स्थवर्णः । अस्योच्चारणस्थानं मूर्द्ध्वा । जिह्वाग्रेण मूर्द्ध्व- स्थानस्येषत्स्पर्शेनोच्चारणादस्य आम्यन्तरप्रयत्न ईषत्- स्पृष्टम् । बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च । वर्णाभिधाने अस्य वाचकशब्दा उक्ता यथा “रो रक्तः क्रोधिनी रेफः पावकस्तैजसो मतः । प्रकाशी दर्शनो दीपा रततृष्णा परं बली । भुजङ्गेशो मतिः सूर्य्यो धातू रक्तप्रकाशकः । व्यापको रेवती दानं दक्षांसो वह्निमण्डलम् । उग्रवेगा स्थूलदण्डो वेदकर्णोपलाम्बरा । प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको घनः । श्रीकण्ठ ऊष्मा हृदयं मुण्डी त्रिपुरसुन्दरी । सविन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतोमुखी” । अस्य व्येयरूपं यथा “रेफञ्च चञ्चलापाङ्गि! कुण्डलीद्वयसंयुतम् । रुक्त- विद्युल्लताकारं पञ्चदेवात्मकं सदा । पञ्चप्राणमयं वर्ण त्रिविन्दुसहितं सदा” कामधेनुत० । “अस्याधिष्ठातृ- देवतारूपं यथा “ललज्जिह्वां महारौद्रीं रक्तास्यां रक्त- लोचनाम् । रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् । रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् । महामोक्ष- प्रदां नित्यामष्टसिद्धिप्रदायिकाम् । एवं ध्यात्वा ब्रह्म- रूपां तन्मन्त्रं दशधा जपेत्” । मातृकान्थासेऽस्य दक्षांसे न्यास्यता । काव्यादौ प्रयोगे “रस्तु दाहम्” वृ० र० टीकोक्तेः दाहः फलम् । पु० रा—ड । १ वह्नौ २ उग्रे मेदि० । ३ कामानले च शब्दर० । ४ छन्दःशास्त्रप्रसिद्धे लघुमध्ये आद्यन्तगुरुयुते रगणे का- व्यादौ तस्य प्रथमप्रयोगे मरणं फलम् अस्य देवताऽग्निः ।
शब्दकल्पद्रुमः
रः || पुं, (राति ऊर्द्ध्वं गतच्छीति । रा + डः ।)
पावकः । तीक्ष्णः । इति मेदिनी । रे, १ ॥ कामवह्निः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
र || रेफः । यथा । वर्णात् कारतकारौ रादेफः । इति कलापसंक्षिप्तसारव्याकरणे ॥ रेफात् कारश्च । रकारः । इति प्रक्रियाकौमुदी ॥ स तु सप्तविंशहलवर्णः । तस्योच्चारणस्थानं मूर्द्धा । इति मुग्धबोधव्याकरणम् ॥ * ॥
(तथा च शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरसा दन्त्या ऌतुलसाः स्मृताः ॥”)
तस्य स्वरूपं यथा, —
“रेफञ्च चञ्चलापाङ्गि ! कुण्डलीद्वयसंयुतम् । रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा । पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा ॥” इति कामधेनुतन्त्रे ६ पटलः ॥ * ॥
तस्य लेखनप्रकारो यथा, —
“दक्षतः कुण्डली रेखा वामाद्दक्षगताप्यधः । पुनर्द्दक्षगता द्बेधा ततोऽधोगत्य चोर्द्ध्वतः ॥ भवानी शङ्करो वह्निस्तासु तिष्ठन्ति नित्यशः । अर्द्धमात्रा ब्रह्मरूपा महाशक्तिः प्रकीर्त्तिता ॥” अपि च । “ऊर्द्ध्वाधःक्रमतो रेखा त्रिकोणाधोगता हि सा । विधिरीशः केशवश्च तासु तिष्ठन्ति नित्यशः ॥ ऊर्द्ध्वस्थिता तु या मात्रा सा शक्तिः परि- कीर्त्तिता । तस्य मध्यगता रेखा वह्निरूपा हि सा स्मृता । निर्गुणोऽसौ सदा वर्णो न कदाचित् गुणीभवेत् ॥” अस्य ध्यानं यथा, —
“ललज्जिह्वां महारौद्रीं रक्तास्यां रक्तलोच- नाम् । रक्तवर्णामष्टभुजां रक्तपुष्पोपशोभिताम् ॥ रक्तमाल्याम्बरधरां रक्तालङ्कारभूषिताम् । महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिकाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, —
“त्रिशक्तिसहितं देवि ! आत्मादितत्त्वसंयुतम् । सर्व्वतेजोमयं वर्णं सततं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥
तस्य नामानि यथा, —
“रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः । प्रकाशादर्शनो दीपो रतकृष्णापरं बली ॥ भुजङ्गेशो मतिः सूर्य्यो धातुरक्तः प्रकाशकः । व्यापको रेवतीदासं कुक्ष्यंशो वह्निमण्डलम् ॥ उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा । प्रकृतिः सुगलो ब्रह्मशब्दश्च गायको धनम् ॥ श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी । सबिन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतो- मुखी ॥” इति नानातन्त्रशास्त्राणि ॥ (छब्दःशास्त्रोक्तगणविशेषः । यथा, छन्दो- मञ्जर्य्याम् । १ । ८ । “र-लमध्यः ।” लघुवर्णमध्यो रः भवति । तस्येदं साङ्केतिकं चिह्नम् ऽ।ऽ पद्यादौ अस्याक्षरस्य प्रयोगे दाहो भवति । यदुक्तं वृत्तरत्नाकरटीकायाम् । “यो लक्ष्मीं रस्तु दाहं व्यसनमथ लवौ शः सुखं षस्तु खेदम् ॥” धात्वनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “—क्षो जक्षादि र वैदिकः ।” “वैदिको वेदेष्वेव प्रयुक्तो न तु भाषाया- मित्यर्थः । यथा, गार्लि स्तुतौ जगाति ॥”)