शब्दकल्पद्रुमः
रक्तकम्बलं || क्ली (कम्बलं जलमाश्रयत्वेनास्त्यस्येति । अर्श आद्यच् । रक्तं रक्तवर्णं कम्बलमुत्पल- मिति ।)
रक्तोत्पलम् । यथा, —
“चन्दनागुरुकर्पूरकुङ्कुमैश्च सुगन्धिभिः । कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकम्बलैः ॥ फलैर्धूपैरपूपैश्च शोभनैर्गुडमिश्रितैः । अर्च्चयेद्बलिराजानं मन्त्रेण द्विजसत्तमः ॥” इति पाद्मोत्तरखण्डे १३ अध्यायः ॥