वाचस्पत्यम्
रक्तकाञ्चन || पु० कर्म० । रक्तवर्णपुष्पककाञ्चनवृक्षे शब्दच० ।
शब्दकल्पद्रुमः
रक्तकाञ्चनः || पुं, (रक्तः रक्तवर्णः काञ्चनः ।)
स्वनामख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । विदलः २ चमरिकः ३ । इति शब्दरत्नावली ॥ काञ्चनालः ४ ताम्रपुष्पः ५ कुदारः ६ । इति जटाधरः ॥