शब्दकल्पद्रुमः
रक्तजन्तुकः || पुं, (रक्तः रक्तवर्णो जन्तुः । ततः स्वार्थे कन् । अथवा रक्ता आसक्ता जन्तवोऽस्मिन् ।) भूनागः । इति राजनिर्घण्टः ॥ रक्तवर्णजन्तु- मात्रञ्च ॥