संस्कृत-शब्दकोशः

रक्तत्रिवृता रक्तदन्तिका

रक्तत्रिवृत्

वाचस्पत्यम्

रक्तत्रिवृत्(ता) ||‍ स्त्री कर्म० । (नालतेओडि) वृक्षभेदे राजनि०


शब्दकल्पद्रुमः

रक्तत्रिवृत् || स्त्री (रक्ता त्रिवृत् ।)
रक्तवर्ण- त्रिवृता । लाल तेउडी । इति भाषा ॥ तत् पर्य्यायः । कालिन्दी २ त्रिपुटा ३ ताम्रपुष्पिका ४ कुलवर्णा ५ मसूरी ६ अमृता ७ काक नासिका ८ । अस्या गुणाः । तिक्तत्वम् । कटु त्वम् । उष्णत्वम् । रेचनत्वम् । ग्रहणीमल- विष्टम्भहारित्वम् । हितकारित्वञ्च । इति राज- निर्घण्टः ॥ (अस्या विशेषो यथा, —
“तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् । सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तत् शुभम् ॥” इति चरके कल्पस्थाने सप्तमेऽध्याये ॥ “अरुणाभं तृवृन्मूलं श्रेष्ठं मूलविरेचने ॥” इति सुश्रुते सूत्रस्थाने ४४ अध्यायः ॥)



Correction: