संस्कृत-शब्दकोशः

रक्तत्रिवृत् रक्तदला

रक्तदन्तिका

वाचस्पत्यम्

रक्तदन्तिका ||‍ स्त्री रक्ता दन्ता अस्याः कप् अत इत्त्वम् । दाडिमीस्थे दुर्गाशक्तिभेदे “मक्षयन्त्याश्च तानुग्रान् वैव्रचित्तान् महासुरान् । रक्ता दन्ता भविष्यन्तीति” उप- क्रमे” ततो मां देवताः सर्वे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं दक्तदन्तिकाम्” देवीमा० । इति तन्नामनिरुक्तिः ।


शब्दकल्पद्रुमः

रक्तदन्तिका || स्त्री (रक्ता दन्ताः अस्याः)
रक्तदन्ता + स्वार्थे कन् । टापि अत इत्वम् ।)
चण्डिका । यथा, —
“भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महा- सुरान् । रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ९१ । ४० ॥



Correction: