शब्दकल्पद्रुमः
रक्तपत्रिका || स्त्री (रक्तानि पत्राण्यस्याः । स्वार्थे कन् । टापि अत इत्वञ्च ।) नाकुली । रक्त- पुनर्नवा । इति राजनिर्घण्टः ॥ लोहितपत्रञ्च ।