शब्दकल्पद्रुमः
रक्तपद्मः || पुं क्ली, (रक्तो रक्तवर्णो पद्मः ।)
रक्त- वर्णकमलम् । तत्पर्य्यायः । रक्तसरोरुहम् २ रक्तोत्पलम् ३ कोकनदम् ४ । इत्यमरः । १ । १० । ४२ ॥ अस्य प्रमाणं यथा, —
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ रक्तपद्मासनस्था च जटामुकुटमण्डिता ॥ रक्तकौषेयवस्त्रा च स्मितवक्त्रा शुभानना । नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ॥” इति तिथ्यादितत्त्वम् ॥