संस्कृत-शब्दकोशः

रक्तपाता रक्तपादी

रक्तपाद

वाचस्पत्यम्

रक्तपाद ||‍ पु० ६ त० । १ शुकपक्षिणि हेमच० । २ कज्जालौ लतायां ३ हंसपद्याङ्क स्त्री राजनि० ङीष् पद्भावश्च ।


शब्दकल्पद्रुमः

रक्तपादः || पुं, (रक्तौ पादावस्य ।)
शुकपक्षी । इति हेमचन्द्रः ॥ (यथा, रामायणे । ७ । ६ । ५७ । “रक्षोगणस्योपरिष्टात् परिभ्रमति कालवत् । कपोता रक्तपादाश्च सारिका विद्रुता ययुः ॥” तथा च याज्ञवल्क्यः । १ । १७५ । “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं चरेत् ॥”)
लोहितचरणयुक्ते, त्रि ॥



Correction: