शब्दकल्पद्रुमः
रक्तपुनर्नवा || स्त्री (रक्ता रक्तवर्णा पुनर्नवा ।)
रक्तवर्णपुनर्नवाशाकः । तत्पर्य्यायः । क्रूरा २ मण्डलपत्रिका ३ रक्तकाण्डा ४ वर्षकेतुः ५ लोहिता ६ रक्तपत्रिका ७ वैशाखी ८ रक्त- वर्षाभूः ९ शोफघ्नी १० पुष्पिका ११ विकस्वरा १२ विषघ्नी १३ प्रावृषेण्या १४ सारिणी १५ वर्षा- भवः १६ शोणपत्रः १७ भौमः १८ पुनर्भवः १९ नवः २० नब्यः २१ । अस्य गुणाः । तिक्तत्वम् । सारकत्वम् । शोफरक्तप्रदरदोषपाण्डुपित्तनाशि- त्वञ्च । इति राजनिर्घण्टः ॥