संस्कृत-शब्दकोशः

रक्तपुनर्नवा रक्तपुष्पक

रक्तपुष्प

वाचस्पत्यम्

रक्तपुष्प ||‍ न० कर्म० । १ रक्ते कुसुमे रक्तं पुष्पमस्य । २ करवीरे जटा० ३ रौहितकवृक्षे ४ रक्तकाञ्चनवृक्षे ५ दाडिमवृक्षे ६ रक्त- वकवृक्षे रत्नमा० ७ बन्धूकवृक्षे ८ पुन्नागवृक्षे च राजनि० ९ शाल्मलीवृक्षे स्त्री जटा० टाप् । रक्तपुष्पक पलाशवृक्षे रोहितकवृक्षे च जटा० । पर्पटे शाल्मलिवृक्षे च राजनि०


शब्दकल्पद्रुमः

रक्तपुष्पः || पुं, (रक्तं पुष्पमस्य ।)
करवीरः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, —
“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः । द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
रौहितवृक्षः । इति शब्दमाला ॥ रक्तकाञ्चन- वृक्षः । दाडिमवृक्षः । वकवृक्षः । इति रत्न- माला ॥ बन्धूकवृक्षः । पुन्नागवृक्षः । इति राजनिर्घण्टः ॥ (रक्तवर्णपुष्पविशिष्टे, त्रि ।)
यथा, बृहत्संहितायाम् । १५ । १४ । “इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिल- मुद्गाः । कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥”)



Correction: