संस्कृत-शब्दकोशः

रक्तप्रसव रक्तफला

रक्तफल

वाचस्पत्यम्

रक्तफल ||‍ पु० रक्तानि फलान्यस्य । १ वटवृक्षे जटा० । २ विम्बि- कायां (तेलाकुचा) स्त्री अमरः टाप् ।


शब्दकल्पद्रुमः

रक्तफलः || पुं, (रक्तं लोहितवर्णं फलमस्य ।)
वटवृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, —
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्दजो ध्रुवः । क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: