शब्दकल्पद्रुमः
रक्तफला || स्त्री (रक्तं पक्वदशायां लोहितवर्णं फलमस्याः ।)
विम्बिका । इत्यमरः । २ । ४ । १३९ ॥ (अस्याः पर्य्यायो यथा, —
“तुष्टी रक्तफला विम्बी तुण्डिकेरी च विम्बिका ॥” इति वैद्यकरत्नमालायाम् ॥)
स्वर्णवल्ली । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, —
“स्वर्णवल्ली रक्तफला काकायुः काकवल्लरी ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)