वाचस्पत्यम्
रक्तमञ्जर || पु० रक्तवर्णा मञ्जरी अस्त्यस्य अच् । निचुल- वृक्षे त्रिका० ।
शब्दकल्पद्रुमः
रक्तमञ्जरः || पुं, (रक्ता रक्तवर्णा मञ्जरी । सा विद्यते- ऽस्येति । “अर्शआदिभ्यः अच् ।” ५ । २ । १२७ । इत्यच् ।)
निचुलवृक्षः । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य निचुलशब्दे ज्ञातव्याः ॥)