रक्तमञ्जर
रक्तमूलक
रक्तमत्स्य
शब्दकल्पद्रुमः
रक्तमत्स्यः || पुं, (रक्तो रक्तवर्णो मत्स्यः ।)
रक्त- वर्णो मस्त्यविशेषः । यथा, —
“यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स तूक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किञ्च दोषत्रयस्य ॥” इति राजनिर्घण्टः ॥