संस्कृत-शब्दकोशः

रक्तयष्टि रक्तयावनाल

रक्तयष्टिका

शब्दकल्पद्रुमः

रक्तयष्टिका || स्त्री (रक्तयष्टि + कन् । टाप् ।)
मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, —
“मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यपि । ताम्रवल्ली चित्रपर्णी काण्डारी रक्तयष्टिका ॥” इति वैद्यकरत्नमालायाम् ॥ “मञ्जिष्ठा विकसा जिङ्गी समङ्गा काल- मेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: