शब्दकल्पद्रुमः
रक्तरेणुः || पुं, (रक्ताः रेणवोऽस्मिन्निति ।)
सिन्दू- रम् । (अस्य पर्य्यायो यथा, —
“सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पलाशकलिका । इति मेदिनी । ने, १०५ ॥ पुन्नागः । इति राजनिर्घण्टः ॥