वाचस्पत्यम्
रक्तवर्ण || पु० रक्तो वर्णाऽस्य । १ इन्द्रगोपकीटभेदे राजनि० । कर्म० । २ रोहितरूपे पु० ३ तद्वति त्रि० ।
शब्दकल्पद्रुमः
रक्तवर्णः || पुं, (रक्तः लोहितः वर्णोऽस्य ।)
इन्द्र- गोपः । इति राजनिर्घण्टः ॥ (रक्तवर्णविशिष्टे, त्रि । यथा, सुश्रुते सूत्रस्थाने । ४६ अध्याये । “सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः ॥”)