शब्दकल्पद्रुमः
रक्तवर्द्धनः || पुं, (रक्तं शोणितं वर्द्धयतीति । वृध् + णिच् + ल्युः ।) वार्त्ताकुः । इति शब्दचन्द्रिका ॥ (पारावतः । तत्पर्य्यायो यथा, — “पारावतः कलरवः कपोतो रक्तवर्द्धनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)