संस्कृत-शब्दकोशः

रक्तवृन्ता रक्तशालि

रक्तवृष्टि

वाचस्पत्यम्

रक्तवृष्टि ||‍ स्त्री ६ त० । दैवकृतोपद्रवभेदे रुधिरवर्षणे “कृत्यचिन्तामणौ “रक्ते शस्त्रोद्योगो मांसास्थिवसादि- भिर्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं विद्यात्” ज्यो० त० ।


शब्दकल्पद्रुमः

रक्तवृष्टिः || स्त्री (रक्तानां वृष्टिः ।)
रुधिरवर्ष- णम् । तत्तु उत्पातविशेषः । तत्फलं शस्त्रोद्- योगः । यथा । कृत्यचिन्तामणौ । “रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्म्मरकः । धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं विद्यात् ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: