शब्दकल्पद्रुमः
रक्तशिग्रुः || पुं, (रक्तवर्णः शिग्रुः ।)
रक्तशोभा- ञ्जनवृक्षः । तत्पर्य्यायः । रक्तकः २ मधुरः ३ बहुलच्छदः ४ सुगन्धः ५ केशरी ६ सिंहः ७ मृगारिः ८ । अस्य गुणाः । महावीर्य्यत्वम् । मधुरत्वम् । रसायनत्वम् । शोफाध्मानसमी- रार्त्तिपित्तश्लेष्मनाशित्वम् । सारकत्वञ्च । इति राजनिर्घण्टः ॥