शब्दकल्पद्रुमः
रक्तस्रावः || पुं, (रक्तं स्रावयतीति । स्रु + णिच् + अच् ।)
वेतसाम्लः । इति जटाधरः ॥ (रक्तस्य स्रावः ।)
रक्तपतनम् । (यथा, बृहत्संहिता- याम् । ८७ । ३५ । “कलहो नैरृतभागे रक्तस्रावोऽथ शस्त्रकोपश्च । अपराद्येचर्मकृतं विनश्यते चर्मकारभयम् ॥”)