संस्कृत-शब्दकोशः

रक्ताक्ष रक्ताङ्गी

रक्ताङ्ग

वाचस्पत्यम्

रक्ताङ्ग ||‍ न० रक्तमङ्गं यस्य यस्माद्वा । १ कुङ्कुमे २ मङ्गलग्रहे ३ कम्पिल्ले (डहरकरमचा) च पु० ४ प्रबाले पुंन० मेदि० । ५ जीवन्त्याम् ६ मञ्जिष्ठायाञ्च स्त्री भावप्र० ङीप् ।


शब्दकल्पद्रुमः

रक्ताङ्गं || क्ली (रक्तवर्णमङ्गमस्य ।)
विद्रुमः । कुङ्कुमम् । इति मेदिनी । गे, ४८ ॥ (रक्तचन्द- नम् । यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥”)


शब्दकल्पद्रुमः

रक्ताङ्गः || पुं, (रक्तमङ्गं यस्य ।)
मङ्गलग्रहः । कम्पिल्लः । इति मेदिनी । गे, ४७ ॥ (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “कम्पिल्लकस्तु रक्ताङ्गो गुण्डारोचनिकेति सा ॥” “कम्पिल्लः कर्क्कशश्चन्द्रो रक्ताङ्गो रोचनोऽपि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
प्रबालः । मत्कुणः । इति राजनिर्घण्टः ॥ मण्डलम् । इति शब्दरत्नावली ॥ (नागविशेषः । यथा, महाभारते । १ । ५७ । १७ । “ऋषभो वेगवान्नागः पिण्डारकमहाहनू । रक्ताङ्गः सर्व्वसारङ्गः समृद्धः पटवासकौ ॥”)



Correction: