संस्कृत-शब्दकोशः

रक्तापह रक्ताम्बर

रक्तापामार्ग

वाचस्पत्यम्

रक्तापामार्ग ||‍ पु० कर्म० । (लाल आपाङ) क्षुपभेदे राजनि०


शब्दकल्पद्रुमः

रक्तापामार्गः || पुं, (रक्तवर्णः अपामार्गः ।)
रक्तवर्णापामार्गक्षुपः । राङ्गा आपाङ् इति वङ्गभाषा । लाल चिरचिरी इति हिन्दी भाषा । तत्पर्य्यायः । क्षुद्रापामार्गः २ आघट्टकः ३ दुग्धिनिका ४ रक्तविट् ५ कल्यपत्रिका ६ । अस्य गुणाः । शीतत्वम् । कटुत्वम् । कफवात- व्रणकण्डूविषनाशित्वम् । संग्राहित्वम् । वान्ति- कारित्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्याय- गुणाः । अथ आरक्तचिरचिरा । “रक्तोऽन्यो वशिरो वृत्तफलो धामार्गवोऽपि च । प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥ अपामार्गोऽरुणो वातविष्टम्भी कफकृद्धिमः । रूक्षः पूर्ब्बगुणैर्न्यूनः कथितो गुणवेदिभिः ॥ अपामार्गफलं स्वादु रसे पाके च दुर्ज्जरम् । विष्टम्भि वातलं रूक्षं वातपित्तप्रसादनम् ॥” इति भावप्रकाशः ॥



Correction: