शब्दकल्पद्रुमः
रक्ताम्बरं || क्ली (रक्तं रञ्जितमम्बरम् ।) काषाय- वस्त्रम् । यथा, — “शवोपरिसमासीनां रक्ताम्बरपरिच्छदाम् । रक्तालङ्कारसंयुक्तां गुञ्जाहारविभूषिताम् ॥” इति तन्त्रसारधृतमुच्छिष्टचाण्डालिनीध्यानम् ॥ तद्युक्ते, त्रि ॥