संस्कृत-शब्दकोशः

रक्ताम्लान रक्तार्म्मन्

रक्तार्बुद

वाचस्पत्यम्

रक्तार्बुद ||‍ पु० रोगविशेषे । तल्लक्षणं भावप्र० उक्तं यथा “दोषप्रदुष्टा रुधिरं सिराश्च संङ्कोच्य संपीद्ध्य ततस्त्व- पाकम् । सस्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरै- रावृतमाशुवृद्धिम् । स्रवत्यजस्रं रुधिरं प्रदुष्टमसाध्य मेतद्रुधिरात्मकन्तु । रक्तक्षयोपद्रवपीडितत्वात् पाण्डु- र्भवेदर्बुदपीडितश्चं । दोषोऽत्र पित्तं, रुधिरं सिराश्च सङ्कोच्य संपीड्य संहतीकृत्य मांसासृजोः सर्वेष्वर्बुदेषु दुष्यत्वं, रक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्बुदे विशेषतो मांसदुष्टिर्बोद्धव्या । ततो मांसपिण्डमुन्नह्यति उद्गतं करोति । अपाकं ईषत्पाकं यथा स्यादेव- मिति क्रियाविशेषणम् । ईषत्पाकश्चैकदेशपाकेन । रक्तक्षयोपद्रवपीडितत्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः । तैः पीडितत्वात् अर्बुदपीडितः” । शाततपीयकर्मविपाके “रक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाः” इत्युक्तम् ।



Correction: