वाचस्पत्यम्
रक्तेक्षु || पु० कर्म० । (काजला) इक्षुभेदे राजनि० ।
शब्दकल्पद्रुमः
रक्तेक्षुः || पुं, (रक्तो रक्तवर्ण इक्षुः ।)
रक्त- वर्णेक्षुः । लाल आक् इति भाषा ॥ तत्पर्य्यायः । सूक्ष्मपत्रः २ शोणः ३ लोहितः ४ उत्कटः ५ मधुरः ६ ह्रस्वमूलः ७ लोहितेक्षुः ८ । अस्य गुणाः । मधुरत्वम् । पाके शीतलत्वम् । मृदु- त्वम् । पित्तदाहहरत्वम् । वृष्यत्वम् । तेजो- बलविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥