संस्कृत-शब्दकोशः

रक्षस् रक्षापत्त्र

रक्षा

वाचस्पत्यम्

रक्षा ||‍ स्त्री रक्ष—भावे अ टाप् । १ रक्षणे २ तदर्थे रक्षसूत्रे च “रक्ष०! मा चल मा चल” रक्षाबन्धमन्त्रः । रक्षति रक्ष अच् टाप् । ३ जतुनि मेदि० । ४ भस्मनि च स्त्री शब्दर० । ५ रक्षके त्रि० ।


शब्दकल्पद्रुमः

रक्षा || स्त्री (रक्षणमिति । रक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । स्त्रियां टाप् ।)
रक्षणम् । (यथा, कुमारे । २ । २८ । “मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥”)
जतु । इति मेदिनी । षे, २३ ॥ भस्म । इति शब्दरत्नावली ॥ यशोदाकृता रक्षा यथा, —
“रक्षां विदधिरे सम्यक् गोपुच्छभ्रमणादिभिः । गोभूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ॥ रक्षां च चक्रुः शकृता द्बादशाङ्गेषु नामभिः । गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ॥ न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्व्वत ॥ अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः । हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ चक्र्यग्रतः सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहा जनश्च । कोणेषु शंख उरुगाय उपर्य्युपेन्द्र- स्तार्क्षः क्षितौ हलधरः पुरुषः समन्तात् ॥ इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु । श्वेतद्बीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्व्वग्रहभयङ्करः ॥ डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ॥ भूतमातृपिशाचाश्च यक्षरक्षोविनायकाः ॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ स्वप्नदृष्टमहोत्पाता वृद्धबालग्रहाश्च ये । सर्व्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥” इति श्रीभागवते १० स्कन्धे ६ अध्यायः ॥ * ॥
अथ पौर्णमास्यां रक्षाबन्धनम् । राखीबाँधा इति भाषा । यथा, —
“पौर्णमास्यां हरे रक्षाबन्धनं विधिपूर्व्वकम् । व्रजराजकुमारत्वात् केचिदिच्छन्ति साधवः ॥” तत्र भद्रादिसद्भावे तामतिक्रम्यैव कुर्य्यात् । तथा च स्मृत्यन्तरे । “भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपतिं हन्ति ग्रामान् दहति फाल- गुनीति ॥” विधिश्च भविष्योत्तरे । “उपाकर्म्मदिने प्रोक्तमृषीणाञ्चैव तर्पणम् । ततोऽपराह्णसमये रक्षापोटलिकां शुभाम् ॥ कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषिताम् । वस्त्रैर्व्विचित्रैः कार्पासैः क्षौमैर्व्वा मलवर्ज्जितैः । विचित्रं ग्रथितं सूत्रं स्थापयेद्भाजनोपरि ॥ उपलगृहमध्ये दण्डचतुष्के न्यसेच्छुभं पीठम् । तत्रोपविशेद्राजा सामात्यः सपुरोहितः ससुहृत् ॥ तदनु पुरोधा नृपते रक्षां बध्नीत मन्त्रेण । येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वां प्रतिबध्रामि रक्षे मा चल मा चल ॥” वैदिकश्च । यदा वघ्न दाक्षपणा हित्ययः शतानीका मनष्य माना तन्मया बध्नामि शतं शारदाया युष्मन् जरदिष्टिर्यथा सम् । “ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः । कर्त्तव्यो रक्षणाचारो विप्रान् शंपूज्य शक्तितः ॥ अनेन विधिना यस्तु रक्षिकाबन्धमाचरेत् । स सर्व्वदोषरहितः सुखं संवत्सरं वसेदिति ॥” अथ तद्दिननिर्णयार्थं उपाकर्म्मदिननिर्णयः क्रियते । यदाह स्मृत्यन्तरे । “उपाकर्म्म तु कुर्व्वन्ति ते सामऋग्यजुर्व्विदः । ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्व्वसु ॥” तथा च । सामवेदिनां भाद्रस्य हस्तानक्षत्रं ऋग्वेदिनां श्रावणस्य श्रवणनक्षत्रं यजुर्व्वेदिनां श्रावणी पूर्णिमोपाकर्म्मकालः । उपक्रमकण्डिका- कीर्त्तनरूपं कर्म्म उपाकर्म्म । अत्र करणाभावे भाद्रे श्रावणेऽपि विधेयम् । “अवृष्ट्योषधयस्तस्मिन् मासे न हि भवन्ति तेत् । तदा भाद्रपदे मासि श्रावणेऽपि तदिष्यते ॥” इति बह्वृच्परिशिष्टवचनात् ॥ श्रावणपञ्चम्यनुकल्पः । तदाह गर्गः । “यदि स्यात् श्रावणं पर्व्व ग्रहसंक्रान्तिदूषितम् । स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य च ॥” इति ॥ अत्र भूतविद्धा पूर्णिमा च निषिद्धा । तथा च कालिकापूराणे । “चतुर्द्दश्यां समुत्पन्नावसुरौ मधुकैटभौ । वेदान् स्वीकुर्व्वतः पद्मयोनेस्तौ जघ्नतुः श्रुतीः ॥ हत्वा तावसुरौ देवः पातालतलवासिनौ । आहृत्य ताः श्रुतीस्तस्मै ददौ लोकगुरुः स्वयम् ॥ संप्राप्तवान् श्रुतीर्ब्रह्मा पर्व्वण्यौदयिके पुनः । अतो भूतयुते तस्मिन्नोपाकरणमिष्यते । आसुरं वर्ज्जयेत् कालं वेदाहरणशङ्कयेति ॥” व्यासोऽपि । “श्रवणेन तु यत् कर्म्म उत्तराषाढसंयुतम् । संवत्सरकृतोऽध्यायस्तत्क्षणादेव नश्यति ॥ धनिष्ठासंयतं कुर्य्याच्छ्रावणं कर्म्म यद्भवेत् । तत् कर्म्म सफलं विद्यादुपाकरणसंज्ञकमिति ॥” इति श्रीहरिभक्तिविलासे ५१ विलासः ॥ (रक्षाकर्म्म यथा । उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म्म कुर्य्यात् तद्बक्ष्यामः । “कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च । रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥ नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः । अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥ पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः । दिक्षु वास्तुनिवासाश्च पान्तु त्वान्ते नमस्कृताः ॥ पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥ अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च । सोमो व्यानमपानन्ते पर्जन्यः परिरक्षतु ॥ उदानं विद्युतः पान्तु समानं स्तनयित्नवः । बलमिन्द्रो बलपतिर्मंनुर्मन्ये मतिन्तथा ॥ कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु । प्रज्ञान्ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा । आकाशं खानि ते पातु देहन्तव वसुन्धरा ॥ वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ एता देहे विशेषेण तव नित्या हि देवताः । एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ स्वस्ति ते भगवान् ब्रह्म स्वस्ति देवाश्च कुर्व्वताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः । पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव ॥ ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥” इति स्वाहा ॥ एतैर्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः । मयैवं कृतरक्षस्त्वं दीर्घर्मायुरवाप्नुहि ॥” इति सुश्रुते सूत्रस्थाने पञ्चमेऽध्याये ॥)



Correction: