शब्दकल्पद्रुमः
रक्षिता || [ऋ] पुं, (रक्षतीति । रक्ष + तृच् ।) रक्षाकर्त्ता । यथा, — “आयव्यवज्ञो लोकज्ञो देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादेष रक्षिता ॥” इति मात्स्ये १८९ अध्यायः ॥