वाचस्पत्यम्
रग || गतौ भ्वा० पर० सक० सेट् इदित् । रङ्गति अरङ्गीत् ।
वाचस्पत्यम्
रग || शङ्कायाम् भ्वा० प० सक० सेट् । रगति एदित् अरगीत् घटा० रगयति ।
वाचस्पत्यम्
रग || स्वादे आप्तौ च चु० उभ० सक० सेट् । रागयति अरीरगत् त ।
शब्दकल्पद्रुमः
रग || इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
इ, रङ्ग्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रग || क स्वाद आपने । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-अक० च-सेट् ।)
क, रागयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रग || म ए शङ्के । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-अक०-सेट् ।)
म, रगयति । ए, अरगीत् । शङ्कः शङ्का । रगति रोगी कुपथ्येभ्यः । इति दुर्गादासः ॥