संस्कृत-शब्दकोशः

रघु रघुनन्दन

रघुकार

शब्दकल्पद्रुमः

रघुकारः || पुं, (रघुं तदाख्यं काव्यं करोतीति । कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।)
कालिदासः । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्यासप्तशत्याम् । ६९७ । “पूर्ब्बैर्व्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः । वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥” यथा च । “सीमन्तिनी च नलिनी च कुमुद्बती च चन्द्रप्रभा च रघुकारसरस्वती च । कान्तोज्झिता हिमहता रविरश्मितप्ता मेघावृता जडधियाभिहता न भाति ॥” इत्युद्भटः ॥)



Correction: