संस्कृत-शब्दकोशः

रघुकार रघुनाथ

रघुनन्दन

वाचस्पत्यम्

रघुनन्दन ||‍ पु० रघून् नन्दयति नन्द—णिच् ल्यु । दशरथस्य ज्येष्ठपुत्रे १ श्रीरामे त्रिका० २ भरतादौ च ।


शब्दकल्पद्रुमः

रघुनन्दनः || पुं, (रघून् रघुवंशसम्भूतान् नन्दय- तीति । नन्दि + ल्युः ।)
श्रीरामः । इति शब्द- रत्नावली ॥ (यथा, रायायणे । १ । ५२ । १२ । “ततो वशिष्ठो भगवान् कथान्ते रघुनन्दन ! । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥” वङ्गदेशीयनवद्वीपनिवासी स्मार्त्तः पण्डित- विशेषः । स च प्राचीनस्मृतिसंग्रहकर्त्ता । मलमासतत्त्वाद्यष्टाविंशतितत्त्वप्रणेता वन्द्य- घटीयश्रीहरिहरभट्टाचार्य्यात्मजः । यथा, —
“प्रणम्य सच्चिदानन्दं परमात्मानमीश्वरम् । मुनीन्द्राणां स्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः । मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये । प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥ दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये । तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥ प्रतिष्ठायां परीक्षायां ज्जोतिषे वास्तुयज्ञके । दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥ सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे । इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥” इति मलमासतत्त्वम् ॥ अपरः पण्डितविशेषः । स च वर्द्धमानप्रदेशान्त- र्गतमाडग्रामनिवासिचरः । राढीयश्रेणीभुक्तः किशोरीमोहनगोस्वामि सूनुः श्रीमन्नित्यानन्द- वंशीयगोस्वामी । भागवतसिद्धान्तव्रजरमापरि- णयछन्दोमञ्जरीटीकाव्याख्यानकौमुदीरामरसा- यणप्रभृतयो बहवो ग्रन्थास्तत्प्रणीताः सन्ति ॥)



Correction: