वाचस्पत्यम्
रङ्गमातृ || स्त्री रङ्गस्य रागस्य मातेवोत्पादिका । १ लाक्षायाम् २ कुट्टिन्याञ्च मेदि० । सा हि नायकयोर्वार्त्ताहरणादिद्वारा रागं वर्द्धयति ।
शब्दकल्पद्रुमः
रङ्गमाता || [ऋ] स्त्री, (रङ्गस्य माता जनिका ।)
कुट्टनी । लाक्षा । इति मेदिनी । ते, २१५ ॥