संस्कृत-शब्दकोशः

रज रजकी

रजक

वाचस्पत्यम्

रजक ||‍ पुंस्त्री० रजति रन्ज—ण्वुल् नलोपः । वस्त्रादेः राग- कारके जातिभेदे (धोपा) अमरः । स च तीवरकन्यायां धीवराज्जातः ब्रह्मवै० । स्त्रियां ङीष् । सा च कुल- नायिका “रजकी नापिताङ्गना” तन्त्रम् ।


शब्दकल्पद्रुमः

रजकः || पुं, (रजति निर्णेजनेन श्वेतिमानमापा- दयति वस्त्रादीनामिति । रन्ज + “नृतिखनि- रञ्जिभ्यः परिगणनं कर्त्तव्यम् ।” ३ । १ । १४५ । इति ष्वुन् ।)
वर्णसङ्करजातिविशेषः । धोवा इति भाषा ॥ (यथा, भागवते । १० । ४१ । ३२ । “रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि विधौतान्युत्तमानि च ॥”)
स च तीवरपत्न्यां धीवराज्जातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । निर्णेजकः २ । इत्यमरः । २ । १० । १० ॥ शौचेयः ३ कर्म्म- कीलकः ४ । इति शब्दरत्नावली ॥ धावकः ५ । इति हेमचन्द्रः । ३ । ५ । ७८ ॥ रजकस्य वस्त्र- निर्णेजनप्रकारो यथा, —
“वासांसि फलकैः श्लक्ष्णैर्निर्णिज्याद्रजकः शनैः । अतोऽन्यथा हि कुर्व्वीत दण्ड्यः स्याद्रुक्ममा- षकम् ॥” इति मात्स्ये २०१ अध्यायः ॥ (रजकान्नभक्षणप्रायश्चित्तं यथाह आपस्तम्बः । “रजके चैव शैलूषे वेणुचर्म्मोपजीविनि । एतेषां यस्तु भूञ्जीत द्बिजश्चान्द्रायणञ्चरेत् ॥” इति प्रायश्चित्तविवेकः ॥ विशेषस्तत्रैव द्रष्टव्यः ॥)
अंशुकः । इति विश्वः ॥



Correction: