संस्कृत-शब्दकोशः

रजनी रजनीगन्धा

रजनीकर

वाचस्पत्यम्

रजनीकर ||‍ पु० रजनीं करोति कृ—ट रजन्यां करः किरणोऽस्य वा । १ चन्द्रे शब्दर० २ कर्पूरे च ।


शब्दकल्पद्रुमः

रजनीकरः || पुं, (रजनीं करोतीति । कृ + टः ।)
चन्द्रः । इति शब्दरत्नावली ॥ (यथा, भाग- वते । ४ । २८ । ३४ । “हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरे- क्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥”)



Correction: