वाचस्पत्यम्
रजनीचर || पुंस्त्री० रजन्यां चरति चर—ट । १ राक्षसे शब्दर० स्त्रियां ङीष् । २ चौरे २ यामिकभेदे च ।
शब्दकल्पद्रुमः
रजनीचरः || पुं, (रजन्यां चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।)
राक्षसः । इति शब्दरत्नावली ॥ (यथा, रामायणे । ७ । ५ । ४ । “स तया सह संयुक्तो वराज रजनीचरः ॥” तथा च । “ओजोऽशनानां रजनीचराणां आहारहेतोर्न शरीरमिष्टम् । गर्भं हरेयुर्यदि तेन मातु- र्लब्धावकाशं न हरेयुरोजः ॥” इति चरके शारीरस्थाने द्वितीयेऽध्याये ॥)
चौरः ॥ यामिकभटः ॥ (रात्रिविहारके, त्रि । यथा, हरिवंशे । २०२ । १८ । “ब्राह्मणानाञ्च राजानं शाश्वतं रजनीचरम् ॥”