वाचस्पत्यम्
रजनीमुख || न० ६ त० । प्रदोषे सूर्य्यास्तकालात् चतुर्दण्डा- त्मके मुहूर्त्तात्मके वा काले अमरः । प्रदोषशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
रजनीमुखं || क्ली (रजन्या मुखम् ।)
प्रदोषः । इत्यमरः । १ । ४ । ६ ॥ (यथा, राजतरङ्गि- ण्याम् । ४ । ४३३ । “ततः शशाङ्कधवले सञ्जाते रजनीमुखे । पाणिनालभ्य भूपालं शय्यावेश्म विवेश सा ॥”)