शब्दकल्पद्रुमः
रजसानुः || पुं, (रज्यतेऽस्मिन्निति । रन्ज् + “असानुः सहिमन्दिभ्यां वृधिरञ्जिभ्यां तु किदर्त्ते- रर्शश्च ।” इत्युणादिकोषटीकाकृत्सूत्रोक्तिः असानुप्रत्ययः ।) मेघः । चित्तम् । इत्यणादि- कोषः । १ । १७४ ॥