शब्दकल्पद्रुमः
रजस्वला || स्त्री (रजोऽस्त्यस्याः । “रजःकृष्या- सुतीति ।” ५ । २ । ११२ । इति वलच् । टाप् ।)
रजोयुक्ता । तत्पर्य्यायः । स्त्रीधर्म्मिणी २ अवी ३ आत्रेयी ४ मलिनी ५ पुष्पवती ६ ऋतुमती ७ उदक्या ८ । इत्यमरः । २ । ६ । २० ॥ दुरिः ९ पुष्पहासा १० । इति शब्दरत्ना- वली ॥ पुष्पिता ११ अवीरा १२ विफली १३ निष्फली १४ । इति जटाधरः ॥ म्लाना १५ पांशुला १६ । इति राजनिर्घण्टः ॥ * ॥
अथ रजस्वलास्पर्शप्रायश्चित्तम् । “काश्यपः । ‘रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि । एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ रजस्वला तु संस्पृष्टा राजन्या ब्राह्मणी तु या । त्रिरात्रेण विशुद्धिः स्यात् व्याघ्रस्य वचनं यथा ॥ रजस्वला तु संस्पृष्टा वैश्यया ब्राह्मणी च या । पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ रजस्वला तु संस्पृष्टा शूद्रया ब्राह्मणी यदि । बड्रात्रेण विशुध्येत्तु ब्राह्मणी कामचारतः ॥ अकामतश्चरेदर्द्धं ब्राह्मणी सर्व्वजातिषु ॥’ एतेन रजस्वलाया ब्राह्मण्याः सवर्णरजस्वला- स्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः । अकामतस्तदर्द्धम् । नक्तव्रतम् । असवर्णरज- स्वलास्पर्शे त्रिरात्रपञ्चरात्रषड् रात्रोपवासाः । अकामतस्तदर्द्धम् । एतत् चतुर्थाहानन्तरं कर्त्तव्यम् । ‘चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजस्वला । अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥ त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति । तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्तु कारयेत् ॥’ इति वचनान्तरदर्शनात् एतत् कामतः ॥ अत्र दिनभेदोऽपि नास्ति । अज्ञाने बृहस्पतिः । ‘पतितान्त्यश्वपाकैश्च संस्पृष्टा स्त्री रजस्वला । तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽह्नि त्रिरात्रं तु द्वितीये द्ब्यहमाचरेत् । अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत् ॥’ चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्ब्बम् । व्याघ्रः । ‘रजस्वला यदा स्पृष्टा श्वजम्बूकखरैः क्वचित् । निराहारा भवेत्तावत् यावत् स्नानेन शुध्यति ॥’ अत्रापि बृहस्पत्युक्तदिनभेदव्यवस्था । वृद्ध- शातातपः । ‘रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि । सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतः परम् ॥’ पञ्चगव्यपानं व्रतरूपम् । तेनोपवासः । ब्रह्म- कूर्च्चमाह जावालः । ‘अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥’ तदशक्तौ पुराणैकं दातव्यम् ।” इति प्रायश्चित्त- तत्त्वम् ॥ * ॥
अन्यच्च । ‘शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः । दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुध्यति ॥’ इति शुद्धितत्त्वम् ॥ तस्यां गमने पापं यथा, —
“प्रथमे दिवसे कान्तां यो हि गच्छेद्रजस्वलाम् । ब्रह्महत्याचतुर्थांशं लभते नात्र संशयः ॥ स पुमान्न हि कर्म्मार्हो दैवे पैत्रे च कर्म्मणि । अधमः स च सर्व्वेषां निन्दितश्चायशस्करः ॥ द्वितीयदिवसे नारीं यो व्रजेच्च रजस्वलाम् । कामतः परिपूर्णाञ्च ब्रह्महत्यां लभेद्ध्रुवम् ॥ आजीवनं नाधिकारी पितृविप्रसुरार्च्चने ॥ अमनुष्योऽयशस्यः स्यादित्याङ्गिरसभाषितम् ॥ तृतीयदिवसे जायां यो हि गच्छेद्रजस्वलाम् । स मूढो ब्रह्महत्याञ्च लभते नात्र संशयः ॥ पूर्ब्बवत् पतितः सोऽपि न चार्हः सर्व्वकर्म्मसु । असत्पुत्त्रा चतुर्थेऽह्नि न गच्छेत्तां विचक्षणः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजंन्मखण्डे ५९ अध्यायः ॥ अपि च । “अपूर्णे ऋतुकाले तु योऽभिगच्छेद्रजस्वलाम् । रेतपाः पितरस्तस्य एवमेतन्न संशयः ॥ एकस्तु पुरुषो याति द्बितीयां काममोहितः । तृतीयां वा चतुर्थीञ्च तदा स पुरुषाधमः ॥ ऋतुकाले तु सर्व्वासां पित्रर्थं भोग इष्यते । ऋतुकालाभिगामी यो ब्रह्मचार्य्येव सम्मतः ॥ न गच्छति च यः क्रोधात् मोहाद्वा पुरुषाधमः । ऋतौ ऋतौ भ्रूणहत्यां प्राप्नोति पुरुषश्चरन् ॥” इति वाराहे गुह्यकर्म्मवर्णनं नामाध्यायः ॥ (अपि च । “रजस्वलास्त्रीगमनमेतन्नरककारणम् । रजस्वलावीरान्नञ्च पुंश्चल्यन्नञ्च भक्षणम् । अभक्ष्यान्नञ्च विप्रर्षे यदन्नं वृषलीपतेः ॥” तथा च । “रजस्वलामकामाञ्च मलिनामप्रियान्तथा । वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ॥ हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् । सगोत्रां गुरुपुत्त्रीञ्च तथा प्रव्रजितामपि ॥ सन्ध्यापर्व्वस्वगम्याञ्च नोपेयात् प्रमदां नरः ॥ रजस्वलां प्राप्तवतो नरस्यानियतात्मनः । दृष्ट्यायुस्तेजसां हानि-रधर्म्मश्च ततो भवेत् ॥” इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)