वाचस्पत्यम्
रतिबन्ध || पु० रतौ बन्धः । रतिमञ्जर्य्युक्ते षोडशप्रकारे रमणबन्धभेदे “न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरतेन ताः । नानाविधैस्तदा बन्धै रन्तव्या काभिभिः स्त्रियः । पद्मासनो १ नागपाशो २ लतावेष्टो ३ ऽर्द्धसंपुटम् ४ । कुलिशं ५ सुन्दर ६ श्चैव तथा केशर ७ एव च । हि- ल्लोलो ८ नरसिंहो ९ ऽपि विपरीत १० स्तथाऽपरः । ११ क्षुब्धो वै धेनुक १० श्चैवमुत्कण्ठ १३ स्तु ततः परम् । सिंहासनो १४ रतिनागो १५ विद्याधर १६ स्तु षोडशः” रति- मञ्जरी । तत्तल्लक्षणं तत्र दृश्यम् ।