शब्दकल्पद्रुमः
रतिमित्रः || पुं, (रतौ मित्रः सूर्य्य इव ।) रतिबन्ध- विशेषः । तस्य लक्षणं यथा, — “पातयेदूरुयुग्मे च कामुकं यदि कामुकी । रतिमित्रंस्तदाख्यातः कामिनीनां सुखावहः ॥” इति रतिमञ्जरी ॥