संस्कृत-शब्दकोशः

रत्नगर्भा रत्नधेनु

रत्नद्वीप

वाचस्पत्यम्

रत्नद्वीप ||‍ पुंन० । रत्नमयो द्वीपः । तन्त्रोक्ते सुधासमुद्रमध्य- स्थिततया ध्येये रत्नमयेऽन्तरीपे ।


शब्दकल्पद्रुमः

रत्नद्वीपं || क्ली (रत्ननिर्म्मितं द्वीपम् । शाकपार्थिववत् समासः ।)
रत्ननिर्म्मितस्थानम् । यथा, —
“सिंहस्कन्धाधिसंरूढां नानालङ्कारभूषिताम् । चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ॥ शङ्खचक्रधनुर्ब्बाणलोचनत्रितयान्विताम् । रक्तवस्त्रपरीधानां वालार्कसदृशीतनूम् ॥ नारदाद्यैर्म्मुनिगणैः सेवितां भवसुन्दरीम् । त्रिवलीबलयोपेतनाभिनालमृणालिनीम् ॥ रत्नद्बीपे महाद्वीपे सिंहासनसमन्विते । प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीत् ॥” इति तन्त्रसारे जगद्धात्रीध्यानम् ॥



Correction: