वाचस्पत्यम्
रत्नवती || स्त्री रत्नानि सन्त्यस्याः मतुप् मस्य वः । १ पृथिव्याम् शब्दर० । २ रत्नयुक्ते त्रि० ।
शब्दकल्पद्रुमः
रत्नवती || स्त्री (रत्नानि सन्त्यस्यामिति । रत्न + मतुप् । मस्य वः । उगित्वात् ङीप् ।)
पृथिवी । इति शब्दमाला ॥ (राज्ञो वीरकेतोः कन्या । यथा, कथासरित्सागरे । ८८ । ६ । “नन्दयन्त्यभिधानायां पत्न्यां तस्योदपद्यत । सुता रत्नवती नाम देवताराधनार्ज्जिता ॥”)
रत्नयुक्ते, त्रि ॥ (यथा, रघुः । ६ । ४ । “परार्द्ध्यवर्णास्तरणोपपन्न- मासेदिवान् रत्नवदासनं सः ॥” फलप्रदे च त्रि । यथा, ऋग्वेदे । ३ । २८ । ५ । “धारत्नवन्तममृतेषु जागृविम् ॥” “रत्नवन्तं रत्नशब्देन स्वर्गादिलक्षणमुत्तमं फल- मभिधीयते तद्बन्तं फलप्रदम् ।” इति तद्भाष्ये सायणः ॥)