संस्कृत-शब्दकोशः

रत्नसानु रत्नाकर

रत्नसू

वाचस्पत्यम्

रत्नसू ||‍ स्त्री रत्नानि सूते सू—क्विप् । पृथिव्याम् हेमच० ।


शब्दकल्पद्रुमः

रत्नसूः || स्त्री (रत्नानि सूते इति । सू प्रसवे + क्विप् ।)
पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥ (यथा, राजतरङ्गिण्याम् । १ । ४२ । “त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शेलो यत्तस्मिन्नपि मण्डलम् ॥” रत्नप्रसवकारिणि, त्रि । यथा, रघुः । १ । ६५ । “न मामवति सद्बीपा रत्नसूरपि मेदिनी ॥”)



Correction: