वाचस्पत्यम्
रत्नि || पुंस्त्री० ऋ—कत्निच् । बद्धमुष्टिहस्तपरिमाणे अमरः । स्त्रीत्वे वा ङीप् ।
शब्दकल्पद्रुमः
रत्निः || पुं, (ऋच्छति प्राप्नोत्यनेनेति । ऋ + “ऋतन्यञ्जीति ।” उणा० ४ । २ । इति कत्निच् ।)
बद्धमुष्टिहस्तः । इत्यमरः । २ । ६ । ८६ ॥ मुटुम् हात इति भाषा ॥ स्त्रीपुंसयो रत्न्यरत्नी इत्यन्ये । इति भरतः ॥ (यथा, महा- भारते । ८ । ७२ । २७ । “अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्ज्जयः ॥”)