शब्दकल्पद्रुमः
रथक्रान्तः || पुं, (रथवत् क्रान्तं क्रमणमस्य ।) तालविशेषः । यथा, — “अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तस्ततः परः । सूर्य्यक्रान्तो विधुक्रान्तो बलभिन्नागपक्षकः ॥ इति पञ्चमहीनानां संज्ञाः सप्त क्रमान्मताः ॥” इति सङ्गीतरत्नाकरः ॥