वाचस्पत्यम्
रथगुप्ति || स्त्री रथस्य गुप्तिः शस्त्रवारणार्थं रक्षा उपचारात् तत्स्थानम् । रथस्य शस्त्रवारणार्थे गुप्तस्थाने अमरः ।
शब्दकल्पद्रुमः
रथगुप्तिः || स्त्री परप्रहरणाभिघातरक्षार्थं रथस्य सन्नाहवदावरणकादिद्रव्यम् । रथस्य गुप्तिः काण्डादिभ्यो रक्षार्थमावरणम् । तत्पर्य्यायः । वरूथः २ । इत्यमरः भरतश्च ॥