संस्कृत-शब्दकोशः

रथचरण रथन्तर

रथद्रु

वाचस्पत्यम्

रथद्रु ||‍ पु० रथनिर्माणाय द्रुः रथनामको वा द्रुः । तिनिशवृक्षे अमरः ।


शब्दकल्पद्रुमः

रथद्रुः || पुं, (रथनामा द्रुः । यद्वा, रथस्य द्रुर्द्रुमः । तत्रोपयोगित्वात् ।)
तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ (तथास्य पर्य्यायः । “तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)



Correction: