वाचस्पत्यम्
रथन्तर || त्रि० रथेन तरति तॄ—खच् मुम् च । १ रथनेतरि । “अभित्वा शूर” इत्यस्यामृचि गीते २ सामभेदे न० । “स्वरादिविशेषानुपूर्वीमात्रस्वरूपे ऋगक्षरव्यतिरिक्तं यत् गानम् तद्रथन्तरम्” सामार्चिकभाष्यम् । “वामदेव्यं वृहत् साम ज्येष्ठसाम रथन्तरम्” इत्युपक्रमे “पश्चिमे द्वार- पालौ तु पठेतां सामगाविति” वि० पा० ।
शब्दकल्पद्रुमः
रथन्तरः || त्रि रथेन तरति यः । इति मुग्धबोध- व्याकरणम् ॥ (कल्पविशेषे, पुं । यथा, मत्स्य- पुराणे । ५३ । ३३ — ३४ । “रथन्तरस्य कल्पस्य वृत्तान्तमधिकृत्य यत् । सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥ यत्र ब्रह्मवराहस्य चरितं वर्ण्यते मुहुः । तदष्टादशसाहस्रं ब्रह्मवैवर्त्तमुच्यते ॥” रथेन तरतीति । तॄ + “संज्ञायां भृतॄवृजि- धारिसहितपिदमः ।” ३ । २ । ४६ । इति खच् । मुम्च । अत्र व्युत्पत्तिमात्रम् । नत्व- वयवार्थानुगमः । सामभेदे, क्ली । यथा, ऋग्- वेदे । १ । १६४ । २५ । “जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्य्यं पर्य्य- पश्यत् ॥” “रथन्तरे एतन्नामके साम्नि ।” इति तद्भाष्ये सायणः । स्त्रियां ङीप् । रथन्तरी । पौरवस्य ईलिनस्य भार्य्या । यथा, महाभारते । १ । ९४ । १७ । “रथन्तर्य्यां सुतान् पञ्च पञ्चभूतोपमांस्ततः । ईलिनो जनयामास दुष्मन्तप्रभृतीन् नृपान् ॥”)