संस्कृत-शब्दकोशः

रथप्सा रथाङ्ग

रथयात्रा

वाचस्पत्यम्

रथयात्रा ||‍ स्त्री रथेन यात्रा । आषाढशुक्लद्वितीयायां जग- न्नाथस्य रथेन २ यात्रायां २ तत्र कर्त्तव्ये उत्सवभेदे च ।


शब्दकल्पद्रुमः

रथयात्रा || स्त्री (रथेन भगवतो यात्रा ।)
आषाढशुक्लद्वितीयायां श्रीजगन्नाथस्य रथा- रोपणरूपोत्सवः । यथा, स्कन्दपुराणे । “आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मां भद्रया सह ॥ यात्रोत्सवं प्रवृत्याथ प्रीणयेच्च द्बिजान् बहून् ॥ तथा । ऋक्षाभावे तिथौ कार्य्या सदा सा प्रीतये मम ॥ मां जगन्नाथम् । सा यात्रा ।” इति तिथ्यादि- तत्त्वम् ॥ * ॥
“नातः श्रेयःपदो विष्णोरुत्सवः शास्त्रसम्मतः । रथयात्रैव यात्राणां मुख्येत्याह प्रजापतिः ॥” इति यात्रातत्त्वम् ॥ * ॥
अन्यत् यात्राशब्दे द्रष्टव्यम् ॥



Correction: